पत्रलेखनम्

पत्र लेखन के दो प्रकार हैं:

  1. औपचारिक पत्र

  2. अनौपचारिक पत्र

औपचारिक पत्र - औपचारिक पत्र अधिकारी, व्यापार क्षेत्र, कार्यालय कार्य, प्रधानाचार्य के लिए लिखे जाते हैं।

अनौपचारिक पत्र - अनौपचारिक पत्र का प्रयोग मित्र, रिश्तेदार, परिचित, अपरिचित के लिए किया जाता है।

सम्बोधन

बड़ों के लिए :

  • आदरणीयाः

  • मान्यवराः

  • पूजनीयाः


मित्र या बराबर वालों के लिए :

  • प्रिय मित्र!

  • प्रिय (नाम)

  • मित्रवर !


छोटों के लिए :

  • प्रिय (नाम)

  • आयुष्मान् !


अपरिचितों, अधिकारियों के लिए :

  • महोदयः

  • मान्यवरः

अभिवादन

(क) बड़ों के लिए

  • सादरं प्रणामाः

  • चरणयो नमामि


(ख) मित्र के लिए

  • सप्रेम नमस्ते

  • सादरं नमामि


(ग) छोटों के लिए

  • आयुष्मान भव

  • चिरञ्जीव


(घ) अपरिचितों के लिए

  • सादरं नमस्ते

  • सादरं अभिवादये

पत्र का समापन

(क) बड़ों के लिए

  • भवदीयः

  • भवताम् आज्ञाकारी


(ख) मित्रों के लिए

  • भवताम् मित्राम्

  • शुभाकांक्षी


(ग) छोटों के लिए

  • भवदीयः

  • शुभचिन्तक


(घ) अपरिचितों के लिए

  • भवदीयः

1) भवान् सौरभः। स्वमित्रं शाश्वतं प्रति स्वयात्रावृत्तान्तविषये लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखतु।

प्रयागराजतः

तिथिः : ..................

प्रिय मित्र (i) .................... ।

सस्नेहं (ii) .................... ।

अत्र सर्वे कुशलं तत्रास्तु। गतमासे अहं (iii) .................... शिमलां गतवान्। तत्र पर्वतानां
(iv) .................... दृष्ट्वा मम मनः अतीव (v) .................... जातम्। तत्र
(vi) .................... पर्यावरणं वर्तते। शिमला (vii) .................... राजधानी अस्ति।
अतः तत्र सर्वत्र विकासः दृश्यते। देशात् विदेशेभ्यः च पर्यटकाः भ्रमणाय
(viii) .................... आगच्छन्ति। अहमपि शिमलाभ्रमणं कृत्वा आत्मानं
(ix) .................... मन्ये। भवान् अपि समयं प्राप्य एकवारं शिमलां गच्छेत्।

भवदीयं प्रियं मित्रम्

(x) .................... ।


मञ्जूषा

सौरभः, शिमलाम्, भ्रमणाय, प्रसन्नम्, ह्यम्, सौन्दर्यम्, शुद्धम्, हिमाचलप्रदेशस्य, नमोनमः, शाश्वत !

2) भवान् दिवाकरः। स्वमातुलं निमन्त्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत।भवान् दिवाकरः। स्वमातुलं निमन्त्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत।

वाराणसीतः

तिथिः : ..................

आदरणीय (i) .................... ।

सस्नेहं नमः ।

अत्र कुशलं (ii) .................... । भवान् इदं ज्ञात्वा अत्यधिकः प्रसन्नः (iii) .................... यत् मम वार्षिकपरीक्षायाः परिणामः आगतः। अहं (iv) .................... सर्वाधिकाङ्कान् प्राप्तवान् अस्मि। सर्वाधिकानाम् अङ्कानां (v) .................... सर्वोत्कृष्ट-छात्र-सम्माननीय राज्यस्तरीकरणे (vi) .................... चितः अस्मि। तत्र सम्मानस्थले (vii) .................... अभिभावकाः आमन्त्रिताः सन्ति। मम सम्मान-कार्यक्रमे भवान् अपि (viii) .................... भवतु इति मम महती इच्छा वर्तते। यतोहि अभिभावकेषु भवान् अग्रगण्यः वर्तते। मातामह्योः चरणयोः मम (ix) .................... प्रणामाञ्जलिः।

भवदीयः भागिनेयः

(x) .................... ।


मञ्जूषा

दिवाकरः, अहम्, परीक्षायाम्, तत्रास्तु, मातुल !, भविष्यति, लब्धिकारणात्, सर्वेऽपि, उपस्थितः, साष्टाङ्गम्।

3) भवान् जयपुरवासी राजेन्द्रः अस्ति। स्वमित्रं मुकेशं स्वभगिन्याः विवाहे निमन्त्रयितुं लिखितं पत्रं मञ्जूषायाः पदैः पूरयित्वा पुनः लिखत।

जयपुरतः

तिथिः : ..................

प्रियमित्र मुकेश !

सस्नेहं (i) ..................

अत्र कुशलं तत्रास्तु। भवान् इदं (ii) ................. अत्यधिकः प्रसन्नः भविष्यति यत् मम (iii) ................. दिव्यायाः विवाहः विजयनगरनिवासि-श्रीवेदप्रकाशस्य पुत्रेण (iv) ................. सह दिसम्बर-मासस्य एकादशीतिथौ निश्चितः जातः। (v) ................. सायं सप्तवादने आरभिष्यति। अस्मिन् मङ्गलावसरे भवान् सपरिवारः सादरं निमन्त्रितः। भवता स्वपरिवारेण सह विवाहात् (vi) ................. पूर्वमेव अत्र आगत्य व्यवस्थायां (vii) ................. अपि करणीयम्। भवतः उपस्थितिः (viii) ................. उत्साहं विश्वासं च वर्धयते। इतोऽपि भवतः जयपुरदर्शनस्य इच्छासिद्धिः अपि (ix) ................. । गृहे पितृभ्यां मम प्रणामाः।

भवतः (x) ..................

राजेन्द्रः


मञ्जूषा

भविष्यति, मम, नमः, वरयात्रा, राकेशेन, सहाय्यम्, भगिन्याः, अभिन्नहृदयः, त्रिदिनानि, ज्ञात्वा

4)भवान् हार्दिकः। भवान् प्रतिदिनं च ‘चाउमीन-बर्गर’ इत्यादिकं त्वरितं भोजनं खादति। स्वस्थभोजनस्य महत्त्वं वर्णयन्त्या अग्रजया भवन्तं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु।

गुरुग्रामात्,

तिथिः : ..................

प्रिय हार्दिक !

(i) ..................

मया तात्र लिखितं पत्रं प्राप्तम्। तेन (ii) ................. मया ज्ञातं यत् भवान् सन्तुलितभोजनं न (iii) ................., प्रतिदिनं च ‘चाउमीन-बर्गर’ इति खादति। (iv) ................. भोजनं स्वास्थ्याय सम्यक् न अस्ति। यदा कदा तु अस्य (v) ................. कर्तुं शक्यते, परं प्रतिदिनं (vi) ................. सेवनं स्वास्थ्याय हानिकरम्।

स्वास्थ्याय तु सन्तुलितभोजनम् एव (vii) ................. यतः ‘स्वस्थशरीरे एव स्वस्थमनसः विकासः’ भवति। अतः भवान् त्वरितभोजनस्य सेवनं (viii) ................. । स्वास्थ्यवर्धकं भोजनमेव खादतु। अनेन भवान् कदापि (ix) ................. न भविष्यति। भवान् स्वास्थ्यविषये जागरूकः तिष्ठतु इति मे अनुरोधः।

भवदीया (x) ..................

हिमांशी


मञ्जूषा

त्वरितभोजनस्य, त्यजतु, पत्रेण, सेवनम्, ईदृशम्, ग्रहीतव्यम्, स्नेहाशिषः, सेवते, रुग्णः, अग्रजा।

5)भवान् अभिनवः। भवतः पितुः स्थानान्तरणवशात् असमप्रदेशम् आगतः। स्थानान्तरण-प्रमाणपत्रं प्राप्तुं प्रधानाचार्यां प्रति लिखिते प्रार्थनापत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु।

सेवायाम्

माननीय (i) ..................

डी.ए.वी. विद्यालयः,

नवदेहली।

विषयः स्थानान्तरण-प्रमाणपत्रं प्राप्तुं प्रार्थनापत्रम्।

महोदय !

(ii) ................. निवेदनम् अस्ति यत् अहं भवत्याः विद्यालये दशमकक्षायां (iii) ................. । मम पितुः (iv) ................. असमप्रदेशस्य गोहाटीनगरे सज्जातम्। मम सम्पूर्णः परिवारः तत्रैव गत्वा निवासं (v) ................. । अहम् अपि (vi) ................. सह गत्वा तत्रैव (vii) ................. । अतः अहं प्रार्थये यत् कृपया मह्यं स्थानान्तरणपत्रं (viii) ................. अनुगृहाणतु। भवत्याः (ix) ................. कृपा भविष्यति।

धन्यवादः।

भवत्याः (x) ................. शिष्यः

अभिनवः

दशमकक्षास्थः

अनुक्रमाङ्कः :- 3

तिथिः : ..................


मञ्जूषा

सविनयम्, पठामि, प्रधानाचार्या, परिवारेण, करिष्यति, प्रदाय, स्थानान्तरणम्, पठिष्यामि, महती, आज्ञाकारी।

1. (i) शाश्वत !

(ii) नमोनमः

(iii) भ्रमणाय

(iv) सौन्दर्यम्

(v) प्रसन्नम्

(vi) शुद्धम्

(vii) हिमाचलप्रदेशस्य

(viii) शिमलाम्

(ix) धन्यम्

(x) सौरवः

2. (i) मातुल !

(ii) तत्रास्तु

(iii) भविष्यति

(iv) परीक्षायाम्

(v) लब्धिकारणात्

(vi) अहम्

(vii) सर्वेऽपि

(viii) उपस्थितः

(ix) साष्टाङ्ग

(x) दिवाकरः

3. (i) नमः

(ii) ज्ञात्वा

(iii) भगिन्याः

(iv) राकेशेन

(v) वरयात्रा

(vi) त्रिदिनानि

(vii) सहाय्यम्

(viii) मम

(ix) भविष्यति

(x) अभिन्नहृदयः

4. (i) स्नेहाशिषः

(ii) पत्रेण

(iii) सेवते

(iv) ईदृशं

(v) सेवनम्

(vi) त्वरितभोजनस्य

(vii) ग्रहीतव्यम्

(viii) त्यजतु

(ix) रुग्णः

(x) अग्रजा

5. (i) प्रधानाचार्या

(ii) सविनयम्

(iii) पठामि

(iv) स्थानान्तरणम्

(v) करिष्यति

(vi) परिवारेण

(vii) पठिष्यामि

(viii) प्रदाय

(ix) महती

(x) आज्ञाकारी

उत्तरमाला

© 2026. All rights reserved.