अपठित-अवबोधनम्
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
वर्तमानयुगं सङ्गणकयुगम् अस्ति। अद्यत्वे सङ्गणकस्य प्रयोगः प्रत्येकं क्षेत्रे वर्तते। अद्य नवीनैः वैज्ञानिकेः आविष्कृतेषु साध्नेषु सङ्गणकयन्त्रम् अतिमहत्वपूर्णम् उपयोगि च अस्ति। जनानां मस्तिष्के ये विचाराः स्मृतिरूपेण स्थाप्यन्ते ते एकस्मिन् एव सङ्गणकयन्त्रे दत्तांशरूपेण (data) क़डीकर्तुं (coding) शक्यन्ते। अतः सम्प्रति काले सङ्गणकयन्त्रस्य गरिमा दिने दिने वर्धमाना अस्ति। सङ्गणकयन्त्रे अत्यन्तं प्रमुखाः बहूपयोगिनः च विषयाः संगृहीताः भवन्ति। यदि क्रिमिप्रवेशेन (virus) सङ्गणकयन्त्रम् दोषपूर्ण भवति चेत् तर्हि दत्तांशाः पुनः न लभन्ते । इमं दोषं निवारयितुं नूतनं तन्त्रज्ञानम् अधुना 'सेफ्टी टेक्नोलॉजी' इति संस्थया अभिवर्धितम्। सङ्गणकयन्त्रमेव विनष्टं चेदपि अन्तर्जालद्वारा (internet) विश्वेऽस्मिन् यत्र कुत्रापि ते अंशाः पुनर्ग्रहीतुं शक्यन्ते ।
(अ) एकपदेन उत्तरत -
(i) कस्य गरिमा दिने दिने वर्धमाना अस्ति ?
(ii) क्रिमिप्रवेशं निवारयितुं का संस्था अस्ति ?
(iii) सङ्गणकयन्त्रम् अद्य कैः वैज्ञानिकेः आविष्कृतम् ?
(ब) पूर्णवाक्येन लिखत -
(i) जनानां मस्तिष्के विचाराः केन रूपेण स्थाप्यन्ते ?
(ii) केन सङ्गणकयन्त्रं दोषपूर्ण भवति ?
(iii) केन विनष्टाः अंशा पुनर्ग्रहीतुं शक्यन्ते ?
(स) अस्यं अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।
(द) यथानिर्देशम् उत्तरत-
(i) 'अस्ति' इत्यस्याः क्रियायाः कर्तृपदं किम् ?
(क) विचाराः
(ख) सङ्गणकयन्त्रम्
(ग) विषयः
(ii) 'नूतनम् तन्त्रज्ञानम्' अनयोः पदयोः विशेषणं किम् ?
(क) नूतनम्
(ख) प्राचीनम्
(ग) तन्त्रज्ञानम्
(iii) 'इन्टरनेट' इत्यस्य पदस्य कः पर्यायः अत्र आगतः ?
(क) सङ्गणकम्
(ख) संकलनम्
(ग) अन्तर्जालम्
(iv) अनुच्छेदे 'पुरातनं' पदस्य कः विपर्ययः आगत ?
(क) रत्नं
(ख) नूतनं
(ग) विनष्टम्
2. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
अवश्यं करणीयं कर्म कर्तव्यम् इति उच्चते। मनुष्याणां जीवने कर्तव्यपालनेनैव सर्वदा उन्नतिर्भवति। कर्तव्यपालनं जीवनस्याधरशिला विद्यते। सर्वे एव स्वकर्तव्यस्याचरणं कुर्वन्ति। सूर्यः सततं तपति। वायुः अहर्निशं वहति। धरा प्राणिनः धारयति। जीवनं सुखमयं कर्तुं मानवस्य कृते अनेकानि कर्तव्यानि निर्धारितानि सन्ति। मनुष्यैः तेषां पालनं अवश्यमेव कर्तव्यम्। विद्याध्ययनम्, चरित्र निर्माणम्, स्वदेशस्य समाजस्य च सेवा, सदाचारस्य पालनम्, परोपकारादयः सर्वाणि कर्तव्यानि सन्ति। यः मानवः कर्तव्यपरायणः भवति स एव समाजस्य रक्षकः आदरभूतश्च भवति। अतः सर्वैः मनुष्यैः सदा स्वकर्तव्यं पालनीयम्। स्वकर्तव्यं न कदाचिदपि त्याज्यम् ।
(अ) एकपदेन उत्तरत-
(i) प्राणिनः का धारयति ?
(ii) किं कदाचिदपि न त्याज्यम् ?
(iii) मनुष्याणां जीवने कदा उन्नतिः भवति ?
(ब) पूर्णवाक्येन लिखत -
(i) मनुष्याणां जीवने कदा उन्नतिः भवति ?
(ii) कः समाजस्य रक्षकः आदरभूतश्च भवति ?
(iii) प्राणिनः का धारयति ?
(स) अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं संस्कृतेन लिखत ।
(द) प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -
(i) 'तपति' इति क्रियापदस्य कर्तृपदं किम् अस्ति ?
(क) सूर्यः
(ख) वायुः
(ग) मानवः
(घ) धरा
(ii) जीवनं सुखमयं कर्तुं ........ अत्र विशेषणपदं किम् अस्ति ?
(क) जीवनम्
(ख) सुखमयम्
(ग) कर्तुम्
(घ) सततम्
(iii) 'निरन्तरम्' अस्य कः पर्यायः गद्यांशे प्रयुक्तम् ?
(क) सततम्
(ख) सुखमयम्
(ग) सेवा
(घ) त्याज्यम्
(iv) 'दुःखमयम्' अस्य कः विलोमः गद्यांशे प्रयुक्तम् ?
(क) सुखमयम्
(ख) आचरणम्
(ग) कर्तव्यम्
(घ) सततम्
3. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
एकदा द्वौ धनिकौ आस्ताम्। तयोः धनिकयोः मध्ये विवाद्ः जातः। उभौ अपि न्यायालयं गतवन्तौ। एकः धनिकः अचिन्तयत् अहं लक्षं रूप्यकाणि न्यायाधीशाय उत्कोचरूपेण ददामि इति। सः स्यूते लक्षं रूप्यकाणि स्थापयित्वा न्यायाधीशस्य गृहं गतवान्। न्यायाधीशः तस्य मन्तव्यं ज्ञात्वा क्रुद्धः अभवत्। धनिकः न्यायाधीशम् अवदत् भोः ! मत्सदृशाः लक्षरूप्यकाणां दातारः दुर्लभाः एव। न्यायाधीशः धनिकम् अवदत् — लक्षरूप्यकाणां दातारः कदाचित् अन्ये अपि भवेयुः, लक्षरूप्यकाणां निराकर्त्तारः मत्सदृशाः अन्ये विरलाः एव। अतः कृपया गच्छतु। न्यायस्थानं मलिनं मा करोतु। लज्जितः धनिकः धनस्यूतं गृहीत्वा ततः निर्गतः।
(अ) एकपदेन उत्तरत-
(i) कयोः मध्ये विवादः जातः ?
(ii) कः लज्जितः भूत्वा निर्गतः ?
(iii) उभौ कुत्र गतवन्तौ ?
(ब) पूर्णवाक्येन लिखत -
(i) धनिकः न्यायाधीशं किम् अवदत् ?
(ii) न्यायाधीशः किम् अवदत् ?
(iii) एकः धनिकः किम् अचिन्तयत् ?
(स) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।
(द) यथानिर्देशम् उत्तरत्-
(i) 'एकदा द्वौ धनिकौ आस्ताम्' अत्र किं क्रियापदम् ?
(क) एकदा
(ख) धनिकौ
(ग) आस्ताम्
(ii) 'लज्जितः' इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) न्यायाधीशः
(ख) धनिकः
(ग) दातारः
(iii) 'निर्धनः' इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम् ?
(क) न्यायाधीशः
(ख) धनिकः
(ग) विवादः
(iv) 'अहं लक्षं रूप्यकाणि ददामि' अस्मिन् वाक्ये 'अहम्' इति पदं कस्मै प्रयुक्तम् ?
(क) धनिकाय
(ख) न्यायाधीशाय
(ग) न्यायालयाय
4. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
ये जनाः दृढ़प्रतिज्ञाः भवन्ति तेषां कृते तेषां व्रतमेव सर्वप्रमुखं भवति। संसारे ईदृशाः जनाः अभवन् ये जीवनस्य अन्तिमे क्षणेऽपि सत्यस्य आश्रयं नात्यजन्। स्वात्मनः विपर्यये किञ्चिद् कर्म अपि नाकुर्वन्। अनेकासु विपत्तिषु अपि नृपः हरिश्चन्द्रः सत्यस्याश्रयं नात्यजत् । महाराणा प्रतापः आजीवनं वने वनेऽभ्रमत्। स्वभार्या बालौ च बुभुक्षया निष्प्राणान्निव पश्यन्नपि सः तेषां वार्ता न अमन्यत। महाराणाप्रतापस्य पत्नी पुत्रौ च तस्मै पराधीनं जीवनं जीवितुम् अकथयन्। आधुनिके काले महर्षिः दयानन्दोऽपि सत्यस्य पालने वेदप्रचारे च स्वजीवनस्य बलिदानम् अकरोत् परं सत्यस्य मार्गं नात्यजत्। एवमेव पुण्यभूमिभारते अनेके ईदृशाः महापुरुषाः अजायन्त, ये स्वजन्मना इमां भूमिं पवित्राम् अकुर्वन् । अद्यापि तेषां चरणचिन्हानि मानवान् सत्याचरणं प्रति प्रेरयन्ति ।
(अ) एकपदेन उत्तरत् -
(i) महर्षिः दयानन्दः किं बलिदानम् अकरोत् ?
(ii) कः नृपः सत्यस्य आश्रयं नात्यजत् ?
(iii) कः आजीवनं वने वनेऽभ्रमत् ?
(ब) पूर्णवाक्येन लिखत -
(i) दृढ़प्रतिज्ञजनानां कृते किं सर्वप्रमुखं भवति ?
(ii) अद्यापि किं मानवान् सत्याचरणं प्रति प्रेरयन्ति ?
(iii) के महाराणा प्रतापं पराधीनं जीवनं जीवितुम् अकथयन् ?
(स) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।
(द) यथानिर्देशम् उत्तरत् -
(i) 'अकरोत्' इत्यस्याः क्रियायाः कर्तृपदं किम् ?
(क) महर्षिः दयानन्दः
(ख) महाराणा
(ग) हरिश्चन्द्रः
(ii) 'नृपः हरिश्चन्द्रः' अनयोः पदयोः विशेषणं किम् ?
(क) हरिश्चन्द्रः
(ख) नृपः
(ग) नृपः हरिश्चन्द्रः
(iii) 'पत्नीम्' इत्यस्य पदस्य कः पर्यायः अत्र आगतः ?
(क) वार्ताम्
(ख) भार्याम्
(ग) मार्गम्
(iv) अनुच्छेदे 'मिथ्यायाः' पदस्य कः विपर्ययः आगतः ?
(क) सत्यस्य
(ख) मार्गम्
(ग) असत्यस्य
5. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
सूर्यवंशे सर्वप्रथमं मनुर्नाम नृपः अभवत्। तस्य कुले एव दिलीपः इति ख्यातनामा राजा समुत्पन्नः। राजा दिलीपः सर्वेषां विषयाणां ज्ञाता आसीत् तथापि सः सर्वदा अभिमानरहितः, पराक्रमी, परिश्रमी, क्षमाशीलः आसीत्। दिलीपः न्यायपूर्वकं पितृवत् च प्रजापालनं करोति स्म। सः प्रजायाः रक्षणे सर्वदा उद्यतः भवति स्म। अतः सः एव प्रजायाः पिता आसीत्। राजा दिलीपः यदा चिरं सन्ततिं न अलभत तदा तं गुरुवशिष्ठः सन्ततिं प्राप्तुं कामधेनोः पुत्र्याः नन्दिन्याः सेवार्थम् आदिशत्। दिलीपः स्वभार्यया सह एकविंशतिः दिवसपर्यन्तं गोसेवाम् अकरोत् । द्वाविंशतितमे दिने एकः सिंहः नन्दिनीम् आक्राम्यत्। दिलीपः गोरक्षायै स्वशरीरं समर्पयितुम् उद्यतः अभवत्। प्रसन्ना नन्दिनी तस्मै सन्ततेः वरम् अयच्छत् ।
(अ) एकपदेन उत्तरत् -
(i) दिलीपः कया सह गोसेवाम् अकरोत् ?
(ii) दिलीपः किमर्थं स्वशरीरं समर्पयितुम् उद्यतः अभवत् ?
(iii) सूर्यवंशे सर्वप्रथमं कः नृपः अभवत् ?
(ब) पूर्णवाक्येन लिखत -
(i) गुरुवशिष्ठः किमर्थं नन्दिन्याः सेवार्थम् आदिशत् ?
(ii) दिलीपः कथं प्रजापालनं करोति स्म ?
(iii) दिलीपः कति दिवसपर्यन्तं गोसेवाम् अकरोत् ?
(स) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत ।
(द) यथानिर्देशम् उत्तरत्-
(i) 'आक्राम्यत' इत्यस्याः क्रियायाः कर्तृपदं किम् ?
(क) दिलीपः
(ख) वशिष्ठः
(ग) सिंहः
(ii) 'क्षमाशीलः' इति पदस्य विशेष्यं गद्यांशात् चित्वा लिखत।
(क) वशिष्ठः
(ख) दिलीपः
(ग) पराक्रमी
(iii) 'वंशे' इत्यस्य पदस्य कः पर्यायः अत्र आगतः ?
(क) कुले
(ख) सन्ततेः
(ग) चिरम्
(iv) अनुच्छेदे 'अलसः' पदस्य कः विपर्ययः आगतः ?
(क) क्षमाशीलः
(ख) परिश्रमी
(ग) पराक्रमी
उत्तरमाला
1. (अ) एकपदेन उत्तरत-
(i) सङ्गणकयन्त्रस्य
(ii) सेफ्टी टेक्नोलॉजी
(iii) नवीनैः
(ब) पूर्णवाक्येन -
(i) जनानां मस्तिष्के विचारः स्मृतिरूपेण स्थाप्यन्ते ।
(ii) क्रिमिप्रवेशेन सङ्गणकयन्त्रं दोषपूर्ण भवति ।
(iii) अन्तर्जालद्वारा सङ्गणकयन्त्रेन विनष्टाः अंशा पुनग्रहीतुं शक्यन्ते ।
(स) शीर्षक-
सङ्गणकयन्त्रम्
(द) यथानिर्देशम् उत्तरत् -
(i) (ख) सङ्गणकयन्त्रम्
(ii) (क) नूतनम्
(iii) (ग) अन्तर्जालम्
(iv) (ख) नूतनं
2. (अ) एकपदेन उत्तरत-
(i) धरा
(ii) स्वकर्तव्यम्
(iii) कर्तव्यपालनेनैव
(ब) पूर्णवाक्येन उत्तरत -
(i) मनुष्याणां जीवने कर्तव्यपालनेनैव सर्वदा उन्नतिर्भवति ।
(ii) यः मानवः कर्तव्यपरायणः भवति स एव समाजस्य रक्षकः आदरभूतश्च भवति ।
(iii) प्राणिनः धरा धारयति ।
(स) शीर्षक-
कर्तव्यस्य महत्वम्
(द) प्रदत्त विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत -
(i) (क) सूर्यः
(ii) (ख) सुखमयम्
(iii) (क) सततम्
(iv) (क) सुखमयम्
3. (अ) एकपदेन उत्तरत्-
(i) धनिकयोः
(ii) धनिकः
(iii) न्यायालयम्
(ब) पूर्णवाक्येन लिखत -
(i) धनिकः न्यायाधीशम् अवदत् — भोः! मत्सदृशाः लक्षरूप्यकाणां दातारः दुर्लभाः एव ।
(ii) न्यायाधीशः धनिकम् अवदत् — लक्षरूप्यकाणां दातारः कदाचित् अन्ये अपि भवेयुः परन्तु लक्षरूप्यकाणां निराकर्त्तारः मत्सदृशाः अन्ये विरलाः एव। अतः कृपया गच्छतु। न्यायस्थानं मलिनं मा करोतु ।
(iii) एकः धनिकः अचिन्तयत् अहं लक्षं रूप्यकाणि न्यायाधीशाय उत्कोचरूपेण ददामि इति ।
(स) शीर्षक -
न्यायाधीशः / सत्यनिष्ठः न्यायाधीशः अथवा अन्यः अपि कश्चित् उपयुक्तः शीर्षकः भवितुम् अर्हति ।
(द) यथानिर्देशम् उत्तरत-
(i) (ग) आस्ताम्
(ii) (ख) धनिकः
(iii) (ख) धनिकः
(iv) (क) धनिकाय
4. (अ) एकपदेन उत्तरत -
(i) स्वजीवनम्
(ii) हरिश्चन्द्रः
(iii) महाराणा प्रतापः / प्रतापः
(ब) पूर्णवाक्येन लिखत -
(i) दृढ़प्रतिज्ञजनानां कृते तेषां व्रतमेव सर्वप्रमुखं भवति ।
(ii) अद्यापि महापुरुषाणां चरणचिन्हानि मानवान् सत्याचरणं प्रति प्रेरयन्ति ।
(iii) महाराणाप्रतापस्य पत्नी पुत्रौ च प्रतापं पराधीनं जीवनं जीवितुम् अकथयन् ।
(स) शीर्षक-
महापुरुषाः / दृढ़प्रतिज्ञाः
(द) यथानिर्देशम् उत्तरत-
(i) (क) महर्षिदयानन्दः
(ii) (ख) नृपः
(iii) (ख) भार्याम्
(iv) (क) सत्यस्य
5. (अ) एकपदेन उत्तरत-
(i) स्वभार्यया
(ii) गोरक्षायै
(iii) मनुः / मनुर्नाम
(ब) पूर्णवाक्येन लिखत -
(i) गुरुवशिष्ठः सन्ततिं प्राप्तुं राजानं दिलीपं कामधेनोः पुत्र्याः नन्दिन्याः सेवार्थम् आदिशत् ।
(ii) दिलीपः न्यायपूर्वकं पितृवत् च प्रजापालनं करोति स्म।
(iii) दिलीपः एकविंशतिः दिवसपर्यन्तं गोसेवाम् अकरोत् ।
(स) शीर्षक-
दिलीपः / राजादिलीपः अथवा अन्यः कोऽपि समुचितः शीर्षकः ।
(द) यथानिर्देशम् उत्तरत-
(i) (ग) सिंहः
(ii) (ख) दिलीपः
(iii) (क) कुले
(iv) (ख) परिश्रमी